वांछित मन्त्र चुनें

अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् । अ॒वोर्वा॒ यद्धात्त॒नूष्वव॑: प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥

अंग्रेज़ी लिप्यंतरण

asmin sv etac chakapūta eno hite mitre nigatān hanti vīrān | avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā ||

पद पाठ

अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् । अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ य॒ज्ञिया॒स्व् अर्वा॑ ॥ १०.१३२.५

ऋग्वेद » मण्डल:10» सूक्त:132» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:20» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्मिन् शकपूते हिते मित्रे) उस शक-अर्थात् शक्य यथायोग्य अधिकार से पवित्र किये ब्रह्मचारी में (एनः-निगतान्) पाप अन्तर्हित (वीरान्) वीर्यवाले गुणों को (हन्ति) नष्ट करता है (अवोः-अर्वा वा) रक्षक-वरुण अर्थात् उपदेशक और अपान (प्रियासु यज्ञियासु तनूषु) प्रिय शिष्यप्रजाओं में या शरीर की नाड़ियों या यज्ञीय शोधनीय में (अर्वा) जानेवाला ज्ञान प्राप्त करानेवाला या जीवन प्राप्त करानेवाला होता है ॥५॥
भावार्थभाषाः - शक्ति साधनों से जब ब्रह्मचारी पवित्र हो जाता है, तो पाप अन्तर्हित गुणों को नष्ट करता है, तो उसके रक्षक अध्यापक उपदेशक प्राण और अपान हो जाते हैं, शिष्य प्रजाओं में ज्ञान प्राप्त कराता है और नाड़ियों में जीवन प्राप्त कराता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्मिन्-शकपूते हिते मित्रे) एतस्मिन् शकेन यथायोग्येन-अधिकारेण पवित्रीकृते ब्रह्मचारिणि (एनः-निगतान् वीरान् हन्ति) पापोऽन्तर्हितान् वीरान् वीर्यवतो गुणान् हन्ति (अवोः-अर्वा वा) रक्षकस्य-अध्यापकस्य वरुणस्य च प्रेरकस्योपदेशकस्यापानस्य वा (प्रियासु यज्ञियासु तनूषु) प्रियासु शिष्यप्रजासु शरीरतन्त्रीषु वा यज्ञियासु शोधनीयासु (अर्वा) गन्ता ज्ञानप्रापयिता जीवनप्रापयिता भवति ॥५॥